हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 2 – युद्धकाण्ड द्वितीयः सर्गः (२)
॥ रामप्रात्साहनम् ॥
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ।
उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ॥ १ ॥
किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा ।
मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ॥ २ ॥
सन्तापस्य च ते स्थानं न हि पश्यामि राघव ।
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३ ॥
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमां पापिकां बुद्धिं कृतात्मेवात्मदूषणीम् ॥ ४ ॥
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६ ॥
इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः ।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥ ७ ॥
एषां हर्षेण जानामि तर्कश्चास्ति दृढो मम ।
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ॥ ८ ॥
रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि ।
सेतुरत्र यथा बध्येद्यथा पश्याम तां पुरीम् ॥ ९ ॥
तस्य राक्षसराजस्य तथा त्वं कुरु राघव ।
दृष्ट्वा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ॥ १० ॥
हतं च रावणं युद्धे दर्शनादुपधारय ।
अबद्ध्वा सागरे सेतुं घोरे तु वरुणालये ॥ ११ ॥
लङ्का नो मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ।
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥ १२ ॥
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय ।
इमे हि समरे शूरा हरयः कामरूपिणः ॥ १३ ॥
शक्ता लङ्कां समानेतुं समुत्पाट्य सराक्षसाम् ।
तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशिनी ॥ १४ ॥
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ।
यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता ॥ १५ ॥
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ।
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ॥ १६ ॥
विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ।
त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रर्थकोविदः ॥ १७ ॥
मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि ।
न हि पश्याम्यहं कञ्चित्त्रिषु लोकेषु राघव ॥ १८ ॥
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।
वानरेषु समासक्तं न ते कार्यं विपत्स्यते ॥ १९ ॥
अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ।
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ॥ २० ॥
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ।
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः ॥ २१ ॥
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ।
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय ॥ २२ ॥
इमे हि समरे शूरा हरयः कामरूपिणः ।
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ २३ ॥
कथंचित्सन्तरिष्यामस्ते वयं वरुणालयम् ।
हतमित्येव तं मन्ये युद्धे समितिनन्दन ॥ २४ ॥
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ।
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥ २ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.